७.३७.१२

दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः ।
एष नः परमः काम एषा नः कीर्तिरुत्तमा ॥

पदच्छेदः

दिष्ट्यादिष्टि (३.१)
प्रत्याहृताप्रत्याहृत (√प्रत्या-हृ + क्त, १.१)
सीतासीता (१.१)
दिष्ट्यादिष्टि (३.१)
शत्रुःशत्रु (१.१)
पराजितःपराजित (√परा-जि + क्त, १.१)
एषएतद् (१.१)
नःमद् (६.३)
परमःपरम (१.१)
कामकाम (१.१)
एषाएतद् (१.१)
नःमद् (६.३)
कीर्तिर्कीर्ति (१.१)
उत्तमाउत्तम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि ष्ट्या प्र त्याहृ ता सी ता
दि ष्ट्या त्रुः राजि तः
नः मः का
षा नः कीर्ति रुत्त मा