७.३८.१

ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम् ।
कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत् ॥

पदच्छेदः

तेतद् (१.३)
प्रयाताप्रयात (√प्र-या + क्त, १.३)
महात्मानःमहात्मन् (१.३)
पार्थिवाःपार्थिव (१.३)
सर्वतोसर्वतस् (अव्ययः)
दिशम्दिश् (२.१)
कम्पयन्तोकम्पयत् (√कम्पय् + शतृ, १.३)
महींमही (२.१)
वीराःवीर (१.३)
स्वपुराणिस्व–पुर (२.३)
प्रहृष्टवत्प्रहृष्ट (√प्र-हृष् + क्त)–वत् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेप्र या ता हा त्मा नः
पार्थि वाःर्व तोदि शम्
म्प न्तो हीं वी राः
स्वपु रा णिप्र हृष्ट वत्