७.३८.२

अक्षौहिणीसहस्रैस्ते समवेतास्त्वनेकशः ।
हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः ॥

पदच्छेदः

अक्षौहिणीसहस्रैस्तेअक्षौहिणी–सहस्र (३.३)–तद् (१.३)
समवेतास्त्वनेकशःसमवेत (√समव-इ + क्त, १.३)–तु (अव्ययः)–अनेकशस् (अव्ययः)
हृष्टाःहृष्ट (√हृष् + क्त, १.३)
प्रतिगताःप्रतिगत (√प्रति-गम् + क्त, १.३)
सर्वेसर्व (१.३)
राघवार्थेराघव–अर्थ (७.१)
समागताःसमागत (√समा-गम् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षौहि णी स्रै स्ते
वे तास्त्व ने शः
हृ ष्टाःप्रति ताः र्वे
रा वा र्थे मा ताः