७.३८.१३

ते सर्वे हृष्टमनसो रामदत्तानि तान्यथ ।
शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ॥

M N Dutt

And those highly powerful monkeys and night-rangers wore on their heads and arms those jewels conferred on them by Rāma.

पदच्छेदः

तेतद् (१.३)
सर्वेसर्व (१.३)
हृष्टमनसोहृष्ट (√हृष् + क्त)–मनस् (१.३)
रामदत्तानिराम–दत्त (√दा + क्त, २.३)
तान्यथतद् (२.३)–अथ (अव्ययः)
शिरोभिर्शिरस् (३.३)
धारयामासुर्धारयामासुः (√धारय् प्र.पु. बहु.)
बाहुभिश्चबाहु (३.३)–च (अव्ययः)
महाबलाःमहत्–बल (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते र्वे हृष्ट सो
रा त्तानि तान्य
शि रो भि र्धा या मासु
र्बाहु भिश्च हा लाः