७.३९.१५

स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितः ।
भक्तिश्च नियता वीर भावो नान्यत्र गच्छति ॥

पदच्छेदः

स्नेहोस्नेह (१.१)
मेमद् (६.१)
परमोपरम (१.१)
राजंस्त्वयिराजन् (८.१)–त्वद् (७.१)
नित्यंनित्यम् (अव्ययः)
प्रतिष्ठितःप्रतिष्ठित (√प्रति-स्था + क्त, १.१)
भक्तिश्चभक्ति (१.१)–च (अव्ययः)
नियतानियत (√नि-यम् + क्त, १.१)
वीरवीर (८.१)
भावोभाव (१.१)
नान्यत्र (अव्ययः)–अन्यत्र (अव्ययः)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्ने हो मे मो रा जं
स्त्वयि नि त्यंप्र तिष्ठि तः
क्तिश्चनि ता वी
भा वो ना न्यत्रच्छति