७.३९.१४

तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ।
हनूमान्प्रणतो भूत्वा राघवं वाक्यमब्रवीत् ॥

पदच्छेदः

तेषाम्तद् (६.३)
एवंएवम् (अव्ययः)
ब्रुवाणानांब्रुवाण (√ब्रू + शानच्, ६.३)
वानराणांवानर (६.३)
(अव्ययः)
रक्षसाम्रक्षस् (६.३)
हनूमान्हनुमन्त् (१.१)
प्रणतोप्रणत (√प्र-नम् + क्त, १.१)
भूत्वाभूत्वा (√भू + क्त्वा)
राघवंराघव (२.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षा मे वंब्रु वा णा नां
वा रा णांक्ष साम्
नू मान्प्र तो भू त्वा
रा वं वाक्यब्र वीत्