७.३९.३

अङ्गदं च महाबाहो प्रीत्या परमयान्वितः ।
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥

पदच्छेदः

अङ्गदंअङ्गद (२.१)
(अव्ययः)
महाबाहोमहत्–बाहु (८.१)
प्रीत्याप्रीति (३.१)
परमयान्वितःपरम (३.१)–अन्वित (१.१)
पश्यपश्य (√पश् लोट् म.पु. )
त्वंत्वद् (१.१)
हनुमन्तंहनुमन्त् (२.१)
(अव्ययः)
नलंनल (२.१)
(अव्ययः)
सुमहाबलम्सु (अव्ययः)–महत्–बल (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्ग दं हा बा हो
प्री त्या यान्वि तः
श्य त्वंनु न्तं
लंसु हा लम्