७.४.८

राघवस्य तु तच्छ्रुत्वा संस्कारालंकृतं वचः ।
ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ॥

M N Dutt

Hearing Rāghava's words, fair and fraught with polished phrase and period, Agastya, struck with surprise, said to Rāghava.

पदच्छेदः

राघवस्यराघव (६.१)
तुतु (अव्ययः)
तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
संस्कारालंकृतंसंस्कार–अलंकृत (√अलम्-कृ + क्त, २.१)
वचःवचस् (२.१)
ईषद्विस्मयमानस्तम्ईषत् (अव्ययः)–विस्मयमान (√वि-स्मि + शानच्, १.१)–तद् (२.१)
अगस्त्यःअगस्त्य (१.१)
प्राहप्राह (√प्र-अह् लिट् प्र.पु. एक.)
राघवम्राघव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्यतु च्छ्रु त्वा
सं स्का रा लंकृ तं चः
द्विस्म मास्त
स्त्यः प्रा रा वम्