७.४०.१५

पुत्रान्नार्यः प्रसूयन्ते वपुष्मन्तश्च मानवाः ।
हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥

पदच्छेदः

पुत्रान्नार्यःपुत्र (२.३)–नारी (१.३)
प्रसूयन्तेप्रसूयन्ते (√प्र-सू लट् प्र.पु. बहु.)
वपुष्मन्तश्चवपुष्मत् (१.३)–च (अव्ययः)
मानवाःमानव (१.३)
हर्षश्चाभ्यधिकोहर्ष (१.१)–च (अव्ययः)–अभ्यधिक (१.१)
राजञ्राजन् (८.१)
जनस्यजन (६.१)
पुरवासिनःपुर–वासिन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु त्रा न्ना र्यःप्र सू न्ते
पु ष्म न्तश्च मा वाः
र्ष श्चाभ्यधि को रा
ञ्जस्यपु वासि नः