७.४०.१७

ईदृशो नश्चिरं राजा भवत्विति नरेश्वर ।
कथयन्ति पुरे पौरा जना जनपदेषु च ॥

पदच्छेदः

ईदृशोईदृश (१.१)
नश्चिरंमद् (६.३)–चिरम् (अव्ययः)
राजाराजन् (१.१)
भवत्वितिभवतु (√भू लोट् प्र.पु. एक.)–इति (अव्ययः)
नरेश्वरनरेश्वर (८.१)
कथयन्तिकथयन्ति (√कथय् लट् प्र.पु. बहु.)
पुरेपुर (७.१)
पौरापौर (१.३)
जनाजन (१.३)
जनपदेषुजनपद (७.३)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दृ शोश्चि रं रा जा
त्विति रेश्व
न्तिपु रे पौ रा
ना देषु