७.४१.१०

नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।
तथारूपं हि रामस्य काननं तन्निवेशितम् ॥

पदच्छेदः

नन्दनंनन्दन (१.१)
हिहि (अव्ययः)
यथेन्द्रस्ययथा (अव्ययः)–इन्द्र (६.१)
ब्राह्मंब्राह्म (१.१)
चैत्ररथंचैत्ररथ (१.१)
यथायथा (अव्ययः)
तथारूपंतथारूप (१.१)
हिहि (अव्ययः)
रामस्यराम (६.१)
काननंकानन (१.१)
तन्निवेशितम्तद् (१.१)–निवेशित (√नि-वेशय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द नंहि थे न्द्रस्य
ब्रा ह्मं चैत्र थं था
था रू पंहि रास्य
का नंन्नि वेशि तम्