७.४१.२

चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि ।
देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥

पदच्छेदः

चन्दनागरुचूतैश्चचन्दन–अगरु–चूत (३.३)–च (अव्ययः)
तुङ्गकालेयकैर्तुङ्ग–कालेयक (३.३)
अपिअपि (अव्ययः)
देवदारुवनैश्चापिदेवदारु–वन (३.३)–च (अव्ययः)–अपि (अव्ययः)
समन्ताद्समन्तात् (अव्ययः)
उपशोभिताम्उपशोभित (√उप-शोभय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द नारु चू तैश्च
तुङ्ग का ले कैपि
दे दारु नै श्चापि
न्तादु शोभि ताम्