७.४१.२३

प्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत् ।
तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥

पदच्छेदः

प्रहसन्तीप्रहसत् (√प्र-हस् + शतृ, १.१)
तुतु (अव्ययः)
वैदेहीवैदेही (१.१)
रामंराम (२.१)
वाक्यम्वाक्य (२.१)
अथाब्रवीत्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
तपोवनानितपस्–वन (२.३)
पुण्यानिपुण्य (२.३)
द्रष्टुम्द्रष्टुम् (√दृश् + तुमुन्)
इच्छामिइच्छामि (√इष् लट् उ.पु. )
राघवराघव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र न्तीतु वै दे ही
रा मं वाक्य थाब्र वीत्
पो नानि पु ण्यानि
द्रष्टु मि च्छामि रा