७.४१.२२

अपत्यलाभो वैदेहि ममायं समुपस्थितः ।
किमिच्छसि हि तद्ब्रूहि कः कामः क्रियतां तव ॥

पदच्छेदः

अपत्यलाभोअपत्य–लाभ (१.१)
वैदेहिवैदेही (८.१)
ममायंमद् (६.१)–इदम् (१.१)
समुपस्थितःसमुपस्थित (√समुप-स्था + क्त, १.१)
किम् (२.१)
इच्छसिइच्छसि (√इष् लट् म.पु. )
हिहि (अव्ययः)
तद्तद् (२.१)
ब्रूहिब्रूहि (√ब्रू लोट् म.पु. )
कः (१.१)
कामःकाम (१.१)
क्रियतांक्रियताम् (√कृ प्र.पु. एक.)
तवत्वद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्य ला भो वै देहि
मा यंमुस्थि तः
कि मिच्छसिहि द्ब्रूहि
कः का मःक्रि तां