७.४१.२६

तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ।
विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥

M N Dutt

Whereto replied Rāma of unwearied actions, saying 'so be it.' Believe me, O Vaidehi, that you shall undoubtedly go there to-morrow.

पदच्छेदः

तथेतितथा (अव्ययः)–इति (अव्ययः)
(अव्ययः)
प्रतिज्ञातंप्रतिज्ञात (√प्रति-ज्ञा + क्त, १.१)
रामेणाक्लिष्टकर्मणाराम (३.१)–अक्लिष्ट–कर्मन् (३.१)
विश्रब्धाविश्रब्ध (√वि-श्रम्भ् + क्त, १.१)
भवभव (√भू लोट् म.पु. )
वैदेहिवैदेही (८.१)
श्वोश्वस् (अव्ययः)
गमिष्यस्यसंशयम्गमिष्यसि (√गम् लृट् म.पु. )–असंशय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थेतिप्र ति ज्ञा तं
रा मे णा क्लिष्टर्म णा
वि स्र ब्धा वै देहि
श्वो मि ष्यस्य सं यम्