७.४१.४

सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः ।
चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः ॥

पदच्छेदः

सर्वदासर्वदा (अव्ययः)
कुसुमैकुसुम (३.३)
रम्यैःरम्य (३.३)
फलवद्भिर्फलवत् (३.३)
मनोरमैःमनोरम (३.३)
चारुपल्लवपुष्पाढ्यैर्चारु–पल्लव–पुष्प–आढ्य (३.३)
मत्तभ्रमरसंकुलैःमत्त (√मद् + क्त)–भ्रमर–संकुल (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्व दाकुसु मै म्यैः
द्भिर्म नो मैः
चारुल्ल पु ष्पा ढ्यै
र्म त्तभ्र संकु लैः