७.४१.५

कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।
शोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः ॥

पदच्छेदः

कोकिलैर्कोकिल (३.३)
भृङ्गराजैश्चभृङ्गराज (३.३)–च (अव्ययः)
नानावर्णैश्चनाना (अव्ययः)–वर्ण (३.३)–च (अव्ययः)
पक्षिभिःपक्षिन् (३.३)
शोभितांशोभित (√शोभय् + क्त, २.१)
शतशश्चित्रैश्चूतवृक्षावतंसकैःशतशस् (अव्ययः)–चित्र (३.३)–चूत–वृक्ष–अवतंसक (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कोकि लै र्भृङ्ग रा जैश्च
ना ना र्णैश्चक्षि भिः
शोभि तां श्चि त्रै
श्चू वृ क्षा तं कैः