७.४२.५

मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।
किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम् ॥

पदच्छेदः

माम्मद् (२.१)
आश्रितानिआश्रित (√आ-श्रि + क्त, २.३)
कान्याहुः (२.३)–आहुः (√अह् लिट् प्र.पु. बहु.)
पौरजानपदापौर–जानपद (१.३)
जनाःजन (१.३)
किं (२.१)
(अव्ययः)
सीतांसीता (२.१)
समाश्रित्यसमाश्रित्य (√समा-श्रि + ल्यप्)
भरतंभरत (२.१)
किं (२.१)
नुनु (अव्ययः)
लक्ष्मणम्लक्ष्मण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा माश्रि तानि का न्या हुः
पौ जा दा नाः
किं सी तां मा श्रित्य
तं किंनुक्ष्म णम्