७.४३.१३

आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः ।
प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥

M N Dutt

Having obtained Rāma's command, the princes, clothed in white raiment, entered there, with folded palms and quiescent mind.

पदच्छेदः

आज्ञप्तास्तुआज्ञप्त (√आ-ज्ञपय् + क्त, १.३)–तु (अव्ययः)
नरेन्द्रेणनरेन्द्र (३.१)
कुमाराःकुमार (१.३)
शुक्लवाससःशुक्ल–वासस् (१.३)
प्रह्वाःप्रह्व (१.३)
प्राञ्जलयोप्राञ्जलि (१.३)
भूत्वाभूत्वा (√भू + क्त्वा)
विविशुस्तेविविशुः (√विश् लिट् प्र.पु. बहु.)–तद् (१.३)
समाहिताःसमाहित (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ञ प्तास्तु रे न्द्रे
कु मा राः शुक्ल वा सः
प्र ह्वाः प्राञ्ज यो भू त्वा
विवि शु स्ते माहि ताः