७.४५.१२

नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।
हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥

पदच्छेदः

नयनंनयन (१.१)
मेमद् (६.१)
स्फुरत्यद्यस्फुरति (√स्फुर् लट् प्र.पु. एक.)–अद्य (अव्ययः)
गात्रोत्कम्पश्चगात्र–उत्कम्प (१.१)–च (अव्ययः)
जायतेजायते (√जन् लट् प्र.पु. एक.)
हृदयंहृदय (२.१)
चैव (अव्ययः)–एव (अव्ययः)
सौमित्रेसौमित्रि (८.१)
अस्वस्थम्अस्वस्थ (२.१)
इवइव (अव्ययः)
लक्षयेलक्षये (√लक्षय् लट् उ.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नं मेस्फु त्यद्य
गा त्रो त्क म्पश्च जा ते
हृ यं चै सौ मि त्रे
स्वस्थमिक्ष ये