७.४५.१४

अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृभिः सह ।
श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥

पदच्छेदः

अपिअपि (अव्ययः)
स्वस्तिस्वस्ति (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
तस्यतद् (६.१)
भ्रातुस्तेभ्रातृ (६.१)–तद् (१.३)
भ्रातृभिःभ्रातृ (३.३)
सहसह (अव्ययः)
श्वश्रूणांश्वश्रू (६.३)
चैव (अव्ययः)–एव (अव्ययः)
मेमद् (६.१)
वीरवीर (८.१)
सर्वासाम्सर्व (६.३)
अविशेषतःअविशेषतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि स्वस्ति वे त्तस्य
भ्रा तु स्ते भ्रातृ भिः
श्व श्रू णां चै मे वी
र्वा सावि शे तः