७.४५.१५

पुरे जनपदे चैव कुशलं प्राणिनामपि ।
इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥

पदच्छेदः

पुरेपुर (७.१)
जनपदेजनपद (७.१)
चैव (अव्ययः)–एव (अव्ययः)
कुशलंकुशल (१.१)
प्राणिनाम्प्राणिन् (६.३)
अपिअपि (अव्ययः)
इत्यञ्जलिकृताइति (अव्ययः)–अञ्जलि–कृत (√कृ + क्त, १.१)
सीतासीता (१.१)
देवतादेवता (२.३)
अभ्ययाचतअभ्ययाचत (√अभि-याच् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु रे दे चै
कु लं प्राणि नापि
त्यञ्जलिकृ ता सी ता
दे ताभ्य या