७.४५.१७

ततो वासमुपागम्य गोमतीतीर आश्रमे ।
प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ॥

पदच्छेदः

ततोततस् (अव्ययः)
वासम्वास (२.१)
उपागम्यउपागम्य (√उपा-गम् + ल्यप्)
गोमतीतीरगोमती–तीर (७.१)
आश्रमेआश्रम (७.१)
प्रभातेप्रभात (७.१)
पुनर्पुनर् (अव्ययः)
उत्थायउत्थाय (√उत्-स्था + ल्यप्)
सौमित्रिःसौमित्रि (१.१)
सूतम्सूत (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो वामु पाम्य
गो ती तीश्र मे
प्र भा तेपु रु त्था
सौ मि त्रिः सूब्र वीत्