७.४५.५

आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम् ।
रथोऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥

पदच्छेदः

आदायोवाचआदाय (√आ-दा + ल्यप्)–उवाच (√वच् लिट् प्र.पु. एक.)
सौमित्रिंसौमित्रि (२.१)
मित्राणांमित्र (६.३)
हर्षवर्धनम्हर्ष–वर्धन (२.१)
रथोरथ (१.१)
ऽयंइदम् (१.१)
समनुप्राप्तोसमनुप्राप्त (√समनुप्र-आप् + क्त, १.१)
यत्यद् (१.१)
कार्यंकार्य (१.१)
क्रियतांक्रियताम् (√कृ प्र.पु. एक.)
प्रभोप्रभु (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा यो वा सौ मि त्रिं
मि त्रा णांर्षर्ध नम्
थो ऽयं नु प्रा प्तो
त्का र्यंक्रि तांप्र भो