७.४५.७

गङ्गातीरे मया देवि मुनीनामाश्रमे शुभे ।
शीघ्रं गत्वोपनेयासि शासनात्पार्थिवस्य नः ॥

पदच्छेदः

गङ्गातीरेगङ्गा–तीर (७.१)
मयामद् (३.१)
देविदेवी (८.१)
मुनीनाम्मुनि (६.३)
आश्रमेआश्रम (७.१)
शुभेशुभ (७.१)
शीघ्रंशीघ्रम् (अव्ययः)
गत्वोपनेयासिगत्वा (√गम् + क्त्वा)–उपनेय (√उप-नी + कृत्, १.१)–असि (√अस् लट् म.पु. )
शासनात्शासन (५.१)
पार्थिवस्यपार्थिव (६.१)
नःमद् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्गा ती रे या देवि
मु नी ना माश्र मेशु भे
शी घ्रं त्वो ने यासि
शा ना त्पार्थिस्य नः