७.४६.१३

सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ ।
पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा ॥

पदच्छेदः

सातद् (१.१)
त्वंत्वद् (१.१)
त्यक्तात्यक्त (√त्यज् + क्त, १.१)
नृपतिनानृपति (३.१)
निर्दोषानिर्दोष (१.१)
मममद् (६.१)
संनिधौसंनिधि (७.१)
पौरापवादभीतेनपौर–अपवाद–भीत (√भी + क्त, ३.१)
ग्राह्यंग्राह्य (√ग्रह् + कृत्, १.१)
देविदेवी (८.१)
(अव्ययः)
तेत्वद् (४.१)
ऽन्यथाअन्यथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा त्वं त्य क्तानृति ना
नि र्दो षा संनि धौ
पौ रा वा भी ते
ग्रा ह्यं देवि तेऽन्य था