७.४६.१७

पादच्छायामुपागम्य सुखमस्य महात्मनः ।
उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥

पदच्छेदः

पादच्छायाम्पाद–छाया (२.१)
उपागम्यउपागम्य (√उपा-गम् + ल्यप्)
सुखम्सुखम् (अव्ययः)
अस्यइदम् (६.१)
महात्मनःमहात्मन् (६.१)
उपवासपरैकाग्राउपवास–पर–एकाग्र (१.१)
वसवस (√वस् लोट् म.पु. )
त्वंत्वद् (१.१)
जनकात्मजेजनकात्मजा (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पा च्छा यामु पाम्य
सुस्य हात्म नः
वा रै का ग्रा
त्वं कात्म जे