७.४७.१७

दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः ।
निरीक्षमाणामुद्विग्नां सीतां शोकः समाविशत् ॥

पदच्छेदः

दूरस्थंदूर–स्थ (२.१)
रथम्रथ (२.१)
आलोक्यआलोक्य (√आ-लोकय् + ल्यप्)
लक्ष्मणंलक्ष्मण (२.१)
(अव्ययः)
मुहुर्मुहुर् (अव्ययः)
मुहुःमुहुर् (अव्ययः)
निरीक्षमाणाम्निरीक्षमाण (√निः-ईक्ष् + शानच्, २.१)
उद्विग्नांउद्विग्न (√उत्-विज् + क्त, २.१)
सीतांसीता (२.१)
शोकःशोक (१.१)
समाविशत्समाविशत् (√समा-विश् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दू स्थं मा लोक्य
क्ष्म णंमु हुर्मु हुः
नि रीक्ष मा णा मु द्वि ग्नां
सी तां शो कः मावि शत्