७.४८.६

तं तु देशमभिप्रेत्य किंचित्पद्भ्यां महामुनिः ।
अर्घ्यमादाय रुचिरं जाह्नवीतीरमाश्रितः ।
ददर्श राघवस्येष्टां पत्नीं सीतामनाथवत् ॥

पदच्छेदः

तंतद् (२.१)
तुतु (अव्ययः)
देशम्देश (२.१)
अभिप्रेत्यअभिप्रेत्य (√अभिप्र-इ + ल्यप्)
किंचित्कश्चित् (२.१)
पद्भ्यांपद् (३.२)
महामुनिःमहत्–मुनि (१.१)
अर्घ्यम्अर्घ्य (२.१)
आदायआदाय (√आ-दा + ल्यप्)
रुचिरंरुचिर (२.१)
जाह्नवीतीरम्जाह्नवी–तीर (२.१)
आश्रितःआश्रित (√आ-श्रि + क्त, १.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
राघवस्येष्टांराघव (६.१)–इष्ट (२.१)
पत्नींपत्नी (२.१)
सीताम्सीता (२.१)
अनाथवत्अनाथ–वत् (अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
तंतु दे भि प्रेत्य किं चि त्प द्भ्यां
हामु निःर्घ्य मा दारुचि रं
जाह्न वी ती माश्रि तःर्श रा
स्ये ष्टां त्नीं सी ता ना वत्