७.५.२६

दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।
लङ्कामवाप्य ते हृष्टा विहरन्ति निशाचराः ॥

पदच्छेदः

दृढप्राकारपरिखांदृढ–प्राकार–परिखा (२.१)
हैमैर्हैम (३.३)
गृहशतैर्गृह–शत (३.३)
वृताम्वृत (√वृ + क्त, २.१)
लङ्काम्लङ्का (२.१)
अवाप्यअवाप्य (√अव-आप् + ल्यप्)
तेतद् (१.३)
हृष्टाहृष्ट (√हृष् + क्त, १.३)
विहरन्तिविहरन्ति (√वि-हृ लट् प्र.पु. बहु.)
निशाचराःनिशाचर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दृ प्रा कारि खां
है मैर्गृ तैर्वृ ताम्
ङ्का वाप्य ते हृ ष्टा
विन्तिनि शा राः