७.५.२५

विश्वकर्मवचः श्रुत्वा ततस्ते राम राक्षसाः ।
सहस्रानुचरा गत्वा लङ्कां तामवसन्पुरीम् ॥

पदच्छेदः

विश्वकर्मवचःविश्वकर्मन्–वचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
ततस्तेततस् (अव्ययः)–तद् (१.३)
रामराम (८.१)
राक्षसाःराक्षस (१.३)
सहस्रानुचरासहस्र–अनुचर (१.३)
गत्वागत्वा (√गम् + क्त्वा)
लङ्कांलङ्का (२.१)
ताम्तद् (२.१)
अवसन्अवसन् (√वस् लङ् प्र.पु. बहु.)
पुरीम्पुरी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विश्वर्म चः श्रु त्वा
स्ते रा राक्ष साः
स्रानु रा त्वा
ङ्कां तान्पु रीम्