७.५.२८

ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ॥

पदच्छेदः

ज्येष्ठक्रमेणज्येष्ठ–क्रम (३.१)
सातद् (१.१)
तेषांतद् (६.३)
राक्षसानाम्राक्षस (६.३)
अराक्षसीअराक्षस (१.१)
कन्यास्ताःकन्या (२.३)–तद् (२.३)
प्रददौप्रददौ (√प्र-दा लिट् प्र.पु. एक.)
हृष्टाहृष्ट (√हृष् + क्त, १.१)
पूर्णचन्द्रनिभाननाःपूर्ण–चन्द्र–निभ–आनन (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ये ष्ठक्र मे सा ते षां
राक्ष सा ना राक्ष सी
न्या स्ताःप्र दौ हृ ष्टा
पूर्णन्द्रनि भा नाः