७.५२.१

ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।
एते निवारिता राजन्द्वारि तिष्ठन्ति तापसाः ॥

पदच्छेदः

ततःततस् (अव्ययः)
सुमन्त्रस्त्वागम्यसुमन्त्र (१.१)–तु (अव्ययः)–आगम्य (√आ-गम् + ल्यप्)
राघवंराघव (२.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
एतेएतद् (१.३)
निवारितानिवारित (√नि-वारय् + क्त, १.३)
राजन्राजन् (८.१)
द्वारिद्वार् (७.१)
तिष्ठन्तितिष्ठन्ति (√स्था लट् प्र.पु. बहु.)
तापसाःतापस (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःसु न्त्र स्त्वाम्य
रा वं वाक्यब्र वीत्
तेनि वारि ता रा
न्द्वारि ति ष्ठन्ति ता साः