७.५२.३

तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।
प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः ॥

पदच्छेदः

तस्यतद् (६.१)
तद्वचनंतद् (२.१)–वचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
रामःराम (१.१)
प्रोवाचप्रोवाच (√प्र-वच् लिट् प्र.पु. एक.)
धर्मवित्धर्म–विद् (१.१)
प्रवेश्यन्तांप्रवेश्यन्ताम् (√प्र-वेशय् प्र.पु. बहु.)
महात्मानोमहात्मन् (१.३)
भार्गवप्रमुखाभार्गव–प्रमुख (१.३)
द्विजाःद्विज (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यद्व नं श्रु त्वा
रा मः प्रो वार्म वित्
प्र वे श्य न्तां हा त्मा नो
भार्गप्रमु खाद्वि जाः