७.५२.४

राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
प्रवेशयामास ततस्तापसान्संमतान्बहून् ॥

M N Dutt

Thereat, honouring the royal mandate, the warder with joined hands brought those ascetics difficult of being approached.

पदच्छेदः

राज्ञस्त्वाज्ञांराजन् (६.१)–तु (अव्ययः)–आज्ञा (२.१)
पुरस्कृत्यपुरस्कृत्य (√पुरस्-कृ + ल्यप्)
द्वाःस्थोद्वाःस्थ (१.१)
मूर्ध्निमूर्धन् (७.१)
कृताञ्जलिःकृताञ्जलि (१.१)
प्रवेशयामासप्रवेशयामास (√प्र-वेशय् प्र.पु. एक.)
ततस्तापसान्ततस् (अव्ययः)–तापस (२.३)
संमतान्संमत (√सम्-मन् + क्त, २.३)
बहून्बहु (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा ज्ञ स्त्वा ज्ञांपु स्कृत्य
द्वाः स्थो मूर्ध्निकृ ताञ्ज लिः
प्र वे या मा
स्ता सा न्सं तान्ब हून्