७.५२.९

रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥

पदच्छेदः

रामस्यराम (६.१)
भाषितंभाषित (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
सर्वसर्व (१.३)
एवएव (अव्ययः)
महर्षयःमहत्–ऋषि (१.३)
बृसीषुबृसी (७.३)
रुचिराख्यासुरुचिर–आख्या (७.३)
निषेदुःनिषेदुः (√नि-सद् लिट् प्र.पु. बहु.)
काञ्चनीषुकाञ्चन (७.३)
तेतद् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्य भाषि तं श्रु त्वा
र्वर्ष यः
बृ सीषुरुचि रा ख्यासु
नि षे दुः काञ्च नीषु ते