७.५४.११

शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ॥

पदच्छेदः

शत्रुघ्नस्त्वब्रवीद्शत्रुघ्न (१.१)–तु (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वाक्यंवाक्य (२.१)
प्रणिपत्यप्रणिपत्य (√प्रणि-पत् + ल्यप्)
नराधिपम्नराधिप (२.१)
कृतकर्माकृत (√कृ + क्त)–कर्मन् (१.१)
महाबाहुर्महत्–बाहु (१.१)
मध्यमोमध्यम (१.१)
रघुनन्दनःरघुनन्दन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रु घ्न स्त्वब्र वी द्वा क्यं
प्रणित्य राधि पम्
कृ र्मा हा बाहु
र्मध्य मोघुन्द नः