७.५४.९

राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥

M N Dutt

Thus addressed by Raghava Bharata remarked: "I will slay this. Let this task be entrusted to me."

पदच्छेदः

राघवेणैवम्राघव (३.१)–एवम् (अव्ययः)
उक्तस्तुउक्त (√वच् + क्त, १.१)–तु (अव्ययः)
भरतोभरत (१.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
अहम्मद् (१.१)
एनंएनद् (२.१)
वधिष्यामिवधिष्यामि (√वध् लृट् उ.पु. )
ममांशःमद् (६.१)–अंश (१.१)
तद् (१.१)
विधीयताम्विधीयताम् (√वि-धा प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा वे णै मु क्तस्तु
तो वाक्यब्र वीत्
मे नं धि ष्यामि
मां शःवि धी ताम्