७.५५.१

एवमुक्तस्तु रामेण परां व्रीडामुपागतः ।
शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दमुवाच ह ॥

M N Dutt

Thus accosted by Rāma, the exceedingly energetic Satrughna was powerfully wrought up with bashfulness, and replied slowly.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तस्तुउक्त (√वच् + क्त, १.१)–तु (अव्ययः)
रामेणराम (३.१)
परांपर (२.१)
व्रीडाम्व्रीडा (२.१)
उपागतःउपागत (√उपा-गम् + क्त, १.१)
शत्रुघ्नोशत्रुघ्न (१.१)
वीर्यसम्पन्नोवीर्य–सम्पन्न (√सम्-पद् + क्त, १.१)
मन्दंमन्द (२.१)
मन्दम्मन्द (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तस्तु रा मे
रां व्री डामु पा तः
त्रु घ्नो वीर्य सं न्नो
न्दंन्दमु वा