७.५५.२

अवश्यं करणीयं च शासनं पुरुषर्षभ ।
तव चैव महाभाग शासनं दुरतिक्रमम् ।
अयं कामकरो राजंस्तवास्मि पुरुषर्षभ ॥

M N Dutt

I must, O best of men, do your behest: for, O exalted one, your mandate can never be passed by me.

पदच्छेदः

अवश्यंअवश्यम् (अव्ययः)
करणीयंकरणीय (√कृ + अनीयर्, १.१)
(अव्ययः)
शासनंशासन (१.१)
पुरुषर्षभपुरुष–ऋषभ (८.१)
तवत्वद् (६.१)
चैव (अव्ययः)–एव (अव्ययः)
महाभागमहाभाग (८.१)
शासनंशासन (१.१)
दुरतिक्रमम्दुरतिक्रम (१.१)
अयंइदम् (१.१)
कामकरोकाम–कर (१.१)
राजंस्तवास्मिराजन् (८.१)–त्वद् (६.१)–अस्मि (√अस् लट् उ.पु. )
पुरुषर्षभपुरुष–ऋषभ (८.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
श्यं णी यं शा नंपु
रुर्ष चै हा भा
शा नंदु तिक्र मम् यं का
रो रा जंस्त वास्मिपुरुर्ष