७.५५.१०

सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे ।
स्वयम्भूरजितो देवो यं नापश्यन्सुरासुराः ॥

पदच्छेदः

सृष्टःसृष्ट (√सृज् + क्त, १.१)
शरोशर (१.१)
ऽयंइदम् (१.१)
काकुत्स्थकाकुत्स्थ (८.१)
यदायदा (अव्ययः)
शेतेशेते (√शी लट् प्र.पु. एक.)
महार्णवेमहत्–अर्णव (७.१)
स्वयम्भूर्स्वयम्भु (१.१)
अजितोअजित (१.१)
देवोदेव (१.१)
यंयद् (२.१)
नापश्यन् (अव्ययः)–अपश्यन् (√पश् लङ् प्र.पु. बहु.)
सुरासुराःसुर–असुर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सृ ष्टः रो ऽयं का कुत्स्थ
दा शे ते हार्ण वे
स्व म्भूजि तो दे वो
यं ना श्यन्सु रासु राः