७.५६.१०

स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते ।
हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः ॥

M N Dutt

When rains shall set in after the expiration of the present summer you should slay him for that is the proper time for destroying that viciousminded one.

पदच्छेदः

तद् (१.१)
ग्रीष्मेग्रीष्म (७.१)
व्यपयातेव्यपयात (√व्यप-या + क्त, ७.१)
तुतु (अव्ययः)
वर्षरात्रवर्ष–रात्र (७.१)
उपस्थितेउपस्थित (√उप-स्था + क्त, ७.१)
हन्यास्त्वंहन्याः (√हन् विधिलिङ् म.पु. )–त्वद् (१.१)
लवणंलवण (२.१)
सौम्यसौम्य (८.१)
तद् (१.१)
हिहि (अव्ययः)
कालोकाल (१.१)
ऽस्यइदम् (६.१)
दुर्मतेःदुर्मति (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ग्री ष्मेव्य या तेतु
र्ष रात्रस्थि ते
न्या स्त्वं णं सौम्य
हि का लोऽस्य दुर्म तेः