७.५७.२७

ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम् ।
क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे ॥

पदच्छेदः

ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
तदामिषंतद् (२.१)–आमिष (२.१)
विप्रोविप्र (१.१)
मानुषंमानुष (२.१)
भोजनाहृतम्भोजन–आहृत (√आ-हृ + क्त, २.१)
क्रोधेनक्रोध (३.१)
महताविष्टोमहत् (३.१)–आविष्ट (√आ-विश् + क्त, १.१)
व्याहर्तुम्व्याहर्तुम् (√व्या-हृ + तुमुन्)
उपचक्रमेउपचक्रमे (√उप-क्रम् लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ञा त्वा दामि षं वि प्रो
मानु षं भो नाहृ तम्
क्रो धे ता वि ष्टो
व्यार्तुमुक्र मे