७.५७.२८

यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।
तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥

M N Dutt

"O king, let this be your food which you have offered me; this shall not prove otherwise."

पदच्छेदः

यस्मात्यस्मात् (अव्ययः)
त्वंत्वद् (१.१)
भोजनंभोजन (२.१)
राजन्ममैतद्राजन् (८.१)–मद् (६.१)–एतद् (२.१)
दातुम्दातुम् (√दा + तुमुन्)
इच्छसिइच्छसि (√इष् लट् म.पु. )
तस्माद्तस्मात् (अव्ययः)
भोजनम्भोजन (१.१)
एतत्एतद् (१.१)
तेत्वद् (६.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
(अव्ययः)
संशयःसंशय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मा त्त्वं भो नं रा
न्म मै द्दातु मिच्छसि
स्मा द्भो मे त्ते
विष्यति सं यः