७.५८.१४

स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।
कथाभिर्बहुरूपाभिर्वासं चक्रे महायशाः ॥

पदच्छेदः

तद् (१.१)
तत्रतत्र (अव्ययः)
मुनिभिःमुनि (३.३)
सार्धंसार्धम् (अव्ययः)
भार्गवप्रमुखैर्भार्गव–प्रमुख (३.३)
नृपःनृप (१.१)
कथाभिर्कथा (३.३)
बहुरूपाभिर्बहुरूप (३.३)
वासंवास (२.१)
चक्रेचक्रे (√कृ लिट् प्र.पु. एक.)
महायशाःमहत्–यशस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रमुनि भिः सा र्धं
भार्गप्रमु खैर्नृ पः
था भिर्बहु रू पाभि
र्वा सं क्रे हा शाः