७.६.१५

स त्वमस्मत्प्रियार्थं तु जहि तान्मधुसूदन ।
चक्रकृत्तास्यकमलान्निवेदय यमाय वै ॥

पदच्छेदः

तद् (१.१)
त्वम्त्वद् (१.१)
अस्मत्प्रियार्थंमद्–प्रिय–अर्थ (२.१)
तुतु (अव्ययः)
जहिजहि (√हा लोट् म.पु. )
तान्मधुसूदनतद् (२.३)–मधुसूदन (८.१)
चक्रकृत्तास्यकमलान्निवेदयचक्र–कृत्त (√कृत् + क्त)–आस्य–कमल (२.३)–निवेदय (√नि-वेदय् लोट् म.पु. )
यमाययम (४.१)
वैवै (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्व स्मत्प्रि या र्थंतु
हि तान्मधु सू
क्र कृ त्तास्य ला
न्नि वे मा वै