७.६.१४

लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।
तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥

M N Dutt

There is a city named Lankā, stationed on the top of Trikuta, (extremely) difficult of entrance. Taking up their station at that place, the nightrangers in a body pursue us.

पदच्छेदः

लङ्कालङ्का (१.१)
नामनाम (अव्ययः)
पुरीपुरी (१.१)
दुर्गादुर्ग (१.१)
त्रिकूटशिखरेत्रिकूट–शिखर (७.१)
स्थितास्थित (√स्था + क्त, १.१)
तत्रतत्र (अव्ययः)
स्थिताःस्थित (√स्था + क्त, १.३)
प्रबाधन्तेप्रबाधन्ते (√प्र-बाध् लट् प्र.पु. बहु.)
सर्वान्नःसर्व (२.३)–मद् (२.३)
क्षणदाचराःक्षणदाचर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्का नापु री दु र्गा
त्रि कूशि रेस्थि ता
त्रस्थि ताःप्र बा न्ते
र्वा न्नःक्ष दा राः