७.६.१७

इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।
अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह ॥

M N Dutt

Thus accosted by the deities, that god of gods Janārdana who brings fear to foes cheering up the celestial up the celestials, said to them.

पदच्छेदः

इत्येवंइति (अव्ययः)–एवम् (अव्ययः)
दैवतैर्दैवत (३.३)
उक्तोउक्त (√वच् + क्त, १.१)
देवदेवोदेवदेव (१.१)
जनार्दनःजनार्दन (१.१)
अभयंअभय (२.१)
भयदोभय–द (१.१)
ऽरीणांअरि (६.३)
दत्त्वादत्त्वा (√दा + क्त्वा)
देवान्देव (२.३)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्ये वं दै तै रु क्तो
दे दे वो नार्द नः
यं दो ऽरी णां
त्त्वा दे वानु वा