७.६.२१

विबुधानां समुद्योगं माल्यवान्स निशाचरः ।
श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥

M N Dutt

And hearing of the activity of the celestials; the night-rangers Mālyavân addressed his heroic brothers, saying.

पदच्छेदः

विबुधानांविबुध (६.३)
समुद्योगंसमुद्योग (२.१)
माल्यवान्माल्यवन्त् (१.१)
तद् (१.१)
निशाचरःनिशाचर (१.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तौतद् (२.२)
भ्रातरौभ्रातृ (२.२)
वीराविदंवीर (२.२)–इदम् (२.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विबु धा नां मु द्यो गं
माल्य वान्सनि शा रः
श्रु त्वा तौ भ्रा रौ वी रा
वि दंब्र वीत्