७.६.२०

इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।
यथा वासं ययुर्हृष्टाः प्रशमन्तो जनार्दनम् ॥

M N Dutt

Thus addressed by the mighty Vişņu, the gods, highly rejoiced, went to their respective quarters, extolling Janārdana.

पदच्छेदः

इत्युक्तास्तेइति (अव्ययः)–उक्त (√वच् + क्त, १.३)–तद् (१.३)
सुराःसुर (१.३)
सर्वेसर्व (१.३)
विष्णुनाविष्णु (३.१)
प्रभविष्णुनाप्रभविष्णु (३.१)
यथायथा (अव्ययः)
वासंवास (२.१)
ययुर्ययुः (√या लिट् प्र.पु. बहु.)
हृष्टाःहृष्ट (√हृष् + क्त, १.३)
प्रशंसन्तोप्रशंसत् (√प्र-शंस् + शतृ, १.३)
जनार्दनम्जनार्दन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यु क्ता स्तेसु राः र्वे
विष्णु नाप्र विष्णु ना
था वा सं यु र्हृ ष्टाः
प्र न्तो नार्द नम्